श्रीनर्मदाष्टकम् -स्वर सौ प्रतिभाताई पुराणिक
नर्मदाष्टकम् सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं द्विषत्सु पापजातजातकारिवारिसंयुतम् ।कृतान्तदूतकालभूतभीतिहारिवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १॥त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं कलौ मलौघभारहारिसर्वतीर्थनायकम् ।सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २॥महागभीरनीरपूरपापधूतभूतलं ध्वनत्समस्तपातकारिदारितापदाचलम् ।जगल्लये महाभये मृकण्डुसूनुहर्म्यदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा मृकण्डुसूनुशौनकासुरारिसेवितं सदा ।पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४॥अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ।वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५॥सनत्कुमारनाचिकेतकश्यपात्रिषट्पदैः धृतं स्वकीयमानसेषु नारदादिषट्पदैः ।रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ६॥अलक्षलक्षलक्षपापलक्षसारसायुधं ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ।विरिञ्चिविष्णुशंकरस्वकीयधामवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ७॥अहो धृतं स्वनं श्रुतं महेशकेशजातटे किरातसूतबाडबेषु पण्डिते शठे नटे ।दुरन्तपापतापहारि सर्वजन्तुशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८॥इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा ।सुलभ्यदेहदुर्लभं महेशधामगौरवं पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥ ९॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्यश्रीमच्छंकरभगवतः कृतौ नर्मदाष्टकं सम्पूर्णम् ॥