श्रीरामद्वादशनामानि स्तोत्र स्वर सौ. शिल्पा की. मराठे

|| श्रीरामद्वादशनामस्तोत्रम् ||प्रथमं श्रीधरं विद्याद्द्वितीयं रघुनायकम् ।तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् ॥ १॥पञ्चमं लोकपूज्यं च षष्ठमं जानकीपतिम् ।सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा ॥ २॥नवमं जलदश्यामं दशमं लक्ष्मणाग्रजम् ।एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् ॥ ३॥द्वादशैतानि नामानि यः पठेच्छ्रद्धयान्वितः ।अर्धरात्रे तु द्वादश्यां कुष्ठदारिद्र्यनाशनम् ॥ ४॥अरण्ये चैव सङ्ग्रामे अग्नौ भयनिवारणम् ।ब्रह्महत्या सुरापानं गोहत्याऽऽदि निवारणम् ॥ ५॥सप्तवारं पठेन्नित्यं सर्वारिष्टनिवारणम् ।ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः ।अश्वमेधशतं पुण्यं ब्रह्मलोके गमिष्यति ॥ ६॥इति श्री स्कन्दपुराणे उत्तरखण्डे श्रीउमामहेश्वरसंवादेश्रीरामद्वादशनामस्तोत्रम् सम्पूर्णम् ।

2356 232