श्रीहनुमत् पञ्चरत्नम् (Shri Hanumat Pancharatnam)
॥ हनुमत् पञ्चरत्नम् ॥वीताखिल-विषयेच्छं जातानन्दाश्रु-पुलकमत्यच्छम् । सीतापति-दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥ तरुणारुण-मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् । सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम् ॥२॥ शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम् । कम्बुगलमनिलदिष्टम् बिम्ब- ज्वलितोष्ठमेकमवलम्बे ॥३॥दूरीकृत-सीतार्तिः प्रकटीकृत- रामवैभव-स्फूर्तिः । दारित-दशमुख-क - कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥ ४ ॥ वानर-निकराध्यक्षं दानवकुल-कुमुद-रविकर-सदृशम् ।दीन-जनावन-दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥ ५॥एतत्-पवन-सुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् ।चिरमिह-निखिलान् भोगान् भुङ्क्त्वा श्रीराम-भक्ति-भाग्-भवति ॥ ६॥इति श्रीमच्छंकर-भगवतः कृतौ हनुमत्-पञ्चरत्नं संपूर्णम् ॥यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृत-मस्तकाञ्जलिम् । बाष्पवारिपरिपूर्ण-लोचनं मारुतिं नमत राक्षसान्तकम् ॥ असाध्यसाधक स्वामिन् असाध्यं तव किं वद । रामदूतकृपसिन्धो मत्कार्यं साधय प्रभो ॥ बुद्धिर्बलं यशो धैर्यं निर्भयत्वम् अरोगता। अजाड्यं वाक्पटुत्वं च हनूमत्स्मरणाद्भवेत् ॥